वांछित मन्त्र चुनें

अ॒जो भा॒गस्तप॑सा॒ तं त॑पस्व॒ तं ते॑ शो॒चिस्त॑पतु॒ तं ते॑ अ॒र्चिः । यास्ते॑ शि॒वास्त॒न्वो॑ जातवेद॒स्ताभि॑र्वहैनं सु॒कृता॑मु लो॒कम् ॥

अंग्रेज़ी लिप्यंतरण

ajo bhāgas tapasā taṁ tapasva taṁ te śocis tapatu taṁ te arciḥ | yās te śivās tanvo jātavedas tābhir vahainaṁ sukṛtām u lokam ||

पद पाठ

अ॒जः । भा॒गः । तप॑सा॒ । तम् । त॒प॒स्व॒ । तम् । ते॒ । शो॒चिः । त॒प॒तु॒ । तम् । ते॒ । अ॒र्चिः । याः । ते॒ । शि॒वाः । त॒न्वः॑ । जा॒त॒ऽवे॒दः॒ । ताभिः॑ । व॒ह॒ । ए॒न॒म् । सु॒ऽकृता॑म् । ऊँ॒ इति॑ । लो॒कम् ॥ १०.१६.४

ऋग्वेद » मण्डल:10» सूक्त:16» मन्त्र:4 | अष्टक:7» अध्याय:6» वर्ग:20» मन्त्र:4 | मण्डल:10» अनुवाक:1» मन्त्र:4


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (जातवेदः-अजः भागः तं तपसा तपस्व तं ते शोचिः तपतु तं ते-अर्चिः) सर्वत्र विराजमान यह अग्नितत्त्व इस अजन्मा जीव को अपने पार्थिव ज्वलन धर्म से ऊपर प्रेरण करता है तथा अग्नि का अन्तरिक्षस्थ तेज उसी जीव को ऊपर की ओर प्रेरित करता है और द्युस्थान रश्मितेज भी और आगे बढता है (याः-ते शिवाः तन्वः ताभिः-एनं सुकृताम्-उ-लोके वह) जो कल्याणकारी फैलनेवाली तैजस धारायें हैं, उनके द्वारा अग्नि इस जीव को पुण्य शुद्ध जन्म की ओर ले जाता है ॥४॥
भावार्थभाषाः - देहान्त के साथ ही अग्नितत्त्व जो सब जगह तेजोरूप से वर्तमान है, वह पृथिवी, अन्तरिक्ष और द्युस्थान के क्रम से ले जाता है ॥४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (जातवेदः-अजः-भागः-तं तपसा तपस्व तं ते शोचिः-तपतु तं ते-अर्चिः) हे सर्वत्र विराजमानाग्ने ! अग्निर्वा योऽयमजन्मा जीवस्तं ज्वलनेन पृथिवीस्थेन तेजसा तपसोर्ध्वं प्रेरय प्रेरयति वा। तं ते शोचिर्ज्वलनमन्तरिक्षस्थं तपतूर्ध्वं प्रेरयतु, तं तेऽर्चिर्द्युस्थानं ज्वलनं तपतूर्ध्वं प्रेरयतु। “तपः, शोचिः, अर्चिः, ज्वलतो नामधेयानि” [निघ०१। १७] (याः ते शिवाः-तन्वः-ताभिः एनं सुकृताम्-उ-लोके वह) याः कल्याणकारिण्यस्तन्वः प्रसरणशीलास्तैजसधारास्ताभिरेनं जीवं पुण्यकृतलोकं स्थानं नय ॥४॥